सामग्री पर जाएँ

पयोव्रतः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पयोव्रतः, पुं, (पयोमात्रपानसाध्यो व्रतः ।) पयो- मात्रपानरूपव्रतविशेषः । यथा, -- “पुण्यां तिथिं समासाद्य युगमन्वन्तरादिकम् । पयोव्रतस्त्रिरात्रं स्यादेकरात्रमथापि वा ॥” इति मात्स्ये १५२ अध्यायः ॥ * ॥ द्वादशाहसाध्यविष्णुव्रतविशेषः । यथा, -- कश्यप उवाच । “एतन्मे भगवान् पृष्टः प्रजाकामस्य पद्मजः । यदाह ते प्रवक्ष्यामि व्रतं केशवतोषणम् ॥ फाल्गुनस्यामले पक्षे द्बादशाहं पयोव्रतः । अर्च्चयेदरविन्दाक्षं भक्त्या परमयान्वितः ॥ सिनीबाल्यां मृदालिप्य स्नायात् क्रोडविदीर्णया । यदि लभ्येत वै स्रोतस्येतन्मन्त्रमुदीरयेत् ॥ त्वं देव्यादिवराहेण रसायाः स्थानमिच्छता । उद्धृतासि नमस्तुभ्यं पाप्मानं मे प्रणाशय ॥ निर्व्वर्त्तितात्मनियमो देवमर्च्चेत् समाहितः । अर्च्चायां स्थण्डिले सूर्य्ये जले वह्नौ गुरावपि ॥ नमस्तुभ्यं भगवते पुरुषाय महीयसे । सर्व्वभूतनिवासाय वासुदेवाय साक्षिणे ॥ नमोऽव्यक्ताय सूक्ष्माय प्रधानपुरुषाय च । चतुर्विंशद्गुणज्ञाय गुणसंख्यानहेतवे ॥ नमो द्विशीर्ष्णे त्रिपदे चतुःशृङ्गाय तन्तवे । सप्तहस्ताय यज्ञाय त्रयीविद्यात्मने नमः ॥ नमः शिवाय रुद्राय नमः शक्तिधराय च । सर्व्वविद्याधिपतये भूतानां पतये नमः ॥ नमो हिरण्यगर्भाय प्राणाय जगदात्मने । योगैश्वर्य्यशरीराय नमस्ते योगहेतवे ॥ नमस्त आदिदेवाय साक्षिभूताय ते नमः । नारायणाय ऋषये नराय हरये नमः ॥ नमो मरकतश्यामवपुषेऽधिगतश्रिये । केशवाय नमस्तुभ्यं नमस्ते पीतवाससे ॥ त्वं सर्व्ववरदः पुंसां वरेण्य वरदर्षभ ! । अतस्ते श्रेयसे धीराः पादरेणुमुपासते ॥ अन्ववर्त्तन्त यं देवाः श्रीश्च तत्पादपद्मयोः । स्पृहयन्त इवामोदं भगवान्मे प्रसीदताम् ॥ एतैर्मन्त्रैर्हृषीकेशमावाहनपुरस्कृतम् । अर्च्चयेच्छ्रद्धया युक्तः पाद्योपस्पर्शनादिभिः ॥ अर्च्चित्वा गन्धमाल्याद्यैः पयसा स्नापयेद्बिभुम् । वस्त्रोपवीताभरणपाद्योपस्पर्शनैस्ततः ॥ गन्धधूपादिभिश्चार्च्चेद्द्बादशाक्षरविद्यया । सृतं पयसि नैवेद्यं शाल्यन्नं विभवे सति ॥ ससर्पिः सगुडं दत्त्वा जुहुयान्मूलविद्यया । निवेदितं तद्भक्ताय दद्याद्भुञ्जीत वा स्वयम् ॥ दत्त्वाचमनमर्च्चित्वा ताम्बूलञ्च निवेदयेत् । जपेदष्टोत्तरशतं स्तुवीत स्तुतिभिः प्रभुम् ॥ कृत्वा प्रदक्षिणं भूमौ प्रणमेद्दण्डवन्मुदा । कृत्वा शिरसि तच्छेषं देवमुद्वासयेत्ततः ॥ द्व्यवरान् भोजयेद्बिप्रान् पायसेन यथोचितम् । भुञ्जीत तैरनुज्ञातः शेषं सेष्टः सभाजितैः ॥ ब्रह्मचार्य्यथ तद्रात्र्यां श्वोभूते प्रथमेऽहनि । स्नातः शुचिर्यथोक्तेन विधिना सुसमाहितः ॥ पयसा स्नापयित्वार्च्चेद्यावद्व्रतसमापनम् । पयोभक्ष्यो व्रतमिदं चरेद्बिष्ण्वर्च्चनादृतः ॥ पूर्ब्बवज्जुहुयादग्निं ब्राह्मणांश्चापि भोजयेत् । एवन्त्वहरहः कुर्य्याद्द्वादशाहं पयोव्रतम् ॥ हरेराराधनं होममर्हणं द्बिजतर्पणम् । प्रतिपद्दिनमारभ्य यावत् शुक्लत्रयोदशीम् ॥ ब्रह्मचर्य्यमधःस्वप्नं स्नानं त्रिसवनञ्चरेत् । वर्ज्जयेदसदालापं भोगानुच्चावचांस्तथा ॥ अहिंस्रः सर्व्वभूतानां वासुदेवपरायणः । त्रयोदश्यामथो विष्णोः स्नपनं पञ्चकैर्विभोः ॥ कारयेच्छास्त्रदृष्टेन विधिना विधिकोविदैः । पूजाञ्च महतीं कुर्य्याद्वित्तशाठ्यविवर्ज्जितः ॥ चरुं निरूप्य पयसि शिपिविष्टाय विष्णवे । सूक्तेन तेन पुरुषं यजेत सुसमाहितः ॥ नैवेद्यञ्चातिगुणवद्दद्यात् पुरुषतुष्टिदम् । आचार्य्यं ज्ञानसम्पन्नं वस्त्राभरणधेनुभिः ॥ तोषयेदृत्विजश्चैव तद्विद्ध्याराधनं हरेः । भोजयेत्तान् गुणवता सदन्नेन शुचिस्मिते ॥ अन्यांञ्च ब्राह्मणान् शक्त्या ये च तत्र समागताः । दक्षिणां गुरवे दद्यादृत्विग्भ्यश्च यथार्हतः ॥ अन्नाद्येनाश्वपाकांश्च प्रीणयेत् समुपागतान् । भुक्तवत्स्वथ सर्व्वेषु दीनान्धकृपणेषु च ॥ विष्णोस्तत् प्रीणनं विद्वान् भुञ्जीत सह बन्धुभिः । नृत्यवादित्रगीतैश्च स्तुतिभिः स्वस्तिवाचनैः ॥ कारयेत्तत्कथाभिश्च पूजां भगवतोऽन्वहम् । एतत् पयोव्रतं नाम पुरुषाराधनं परम् ॥ पितामहेनाभिहितं मया ते समुदाहृतम् । त्वञ्चानेन महाभागे ! सम्यक् चीर्णेन केशवम् ॥ आत्मना शुद्धभावेन नियतात्मा भजाव्ययम् । अयं वै सर्व्वयज्ञाख्यः सर्व्वव्रतमिति स्मृतम् ॥ तपःसारमिदं भद्रे दानञ्चेश्वरतर्पणम् । त एव नियमाः साक्षात्त एव च यमोत्तमाः ॥ तपो दानं व्रतं यज्ञो येन तुष्यत्यधोक्षजः । तस्मादेतद्व्रतं भद्रे प्रयता श्रद्धया चर ॥ भगवान् परितुष्टस्ते वरानाशु विधास्यति ॥” इति श्रीभागवते ८ स्कन्धे १६ आध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=पयोव्रतः&oldid=146777" इत्यस्माद् प्रतिप्राप्तम्