सामग्री पर जाएँ

परकीया

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

परकीया, स्त्री, (परकीय + टाप् ।) नायिका- भेदः । अस्या लक्षणं यथा । अप्रकटपर- पुरुषानुरागा । सा च द्विविधा । परोढा १ कन्यका च २ । कन्यायाः पित्राद्यधीनतया परकीयत्वम् । अस्या गुप्तैव सकला चेष्टा ॥ * ॥ परोढा यथा, -- “अयं रेवाकुञ्जः कुसुमशरसेवासमुचितः समीरोऽयं वेलादरविलसदेलापरिमलः । इयं प्रावृड्धन्या नवजलदविन्यासचतुरा पराधीनं चेतः सखि ! किमपि कर्त्तुं मृगयते ॥” * गुप्ताविदग्धालक्षिताकुलटानुशयानामुदिताप्रभृ- तीनां परकीयायां एवान्तर्भावः । गुप्ता त्रिविधा । वृत्तसुरतगोपना १ वर्त्तिष्यमाण- सुरतगोपना २ वर्त्तमानसुरतगोपना च ३ । त्रिविधा यथा, -- “श्वश्रूः क्रुध्यतु विद्बिषन्तु सुहृदो निन्दन्तु वा यातर- स्तस्मिन् किन्तु न मन्दिरे सखि ! पुनः स्वापो विधेयो मया । आखोराक्रमणाय कोणकुहरादुत्फालमातन्वती मार्ज्जारी नखरैः खरैः कृतवती कां कां न मे दुर्द्दशाम् ॥” * ॥ ‘किञ्चित्कुञ्चितहारयष्टिसरलभ्रूवल्लिसाचिस्मितं प्रान्तभ्रान्तविलोचनद्युतिभुजा पर्य्यस्तकर्णोत्- पलम् । अङ्गुल्या स्फुरदङ्गुलीयकरुचा कर्णस्य कण्डूयनं कुर्व्वाणा नृपकन्यका सुकृतिनं सव्याजमालो- कते ॥” इति रतिमञ्जरी ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

परकीया f. -ananother's wife or a woman dependent on others(616454 -त्वn. ) Sa1h.

"https://sa.wiktionary.org/w/index.php?title=परकीया&oldid=414589" इत्यस्माद् प्रतिप्राप्तम्