परक्षेत्रम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परक्षेत्रम्, क्ली, (परस्य क्षेत्रं पत्न्यादि ।) परपत्नी । (यथा, मनुः । ३ । १७५ । “तौ तु जातौ परक्षेत्रे प्राणिनौ प्रेत्य चेह च । दत्तानि हव्यकव्यानि नाशयेते प्रदायिनाम् ॥”) परशरीरम् । परभूमिः । यथा, -- “वृषापेहि परक्षेत्रादायाति क्षेत्ररक्षकः ।” इति चन्द्रालोकः ॥ (तथा च मनुः । ८ । ३४१ । “द्विजोऽध्वगः क्षीणवृत्तिर्द्बाविक्षू द्वे च मूलके । आददानः परक्षेत्रान्न दण्डं दातुमर्हति ॥”)
