परतन्त्रः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परतन्त्रः, त्रि, (परस्तन्त्रं प्रधानं यस्य ।) परा- धीनः । इत्यमरः ॥ (यथा, महाभारते । १३ । १ । १५ । “परतन्त्रं कथं हेतुमात्मानमनुपश्यसि । कर्म्मणां हि महाभाग ! सूक्ष्मं ह्येतदतीन्द्रियम् ॥” परस्य तन्त्रं इति विग्रहे क्ली । परकीय- शास्त्रम् । परं श्रेष्ठं तन्त्रमिति विग्रहे । उत्- कृष्टशास्त्रम् । उत्तमपरिच्छदम् ॥)
