परदुःखम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परदुःखम्, क्ली, (परेषां दुःखम् ।) अन्यजनपीडा । यथा, -- “त्यक्त्वात्मसुखभोगेच्छां सर्व्वसत्त्वसुखैषिणः । भवन्ति परदुःखेन साधवो नित्यदुःखिताः ॥ परदुःखातुरा नित्यं स्वसुखानि महान्त्यपि । नापेक्षन्ते महात्मानः सर्व्वभूतहिते रताः ॥” इत्यग्निपुराणम् ॥
