सामग्री पर जाएँ

परन्तपः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

परन्तपः, त्रि, (परान् शत्रून् तापयतीति । तप सन्तापे “द्बिषत्परयोस्तापेः ।” ३ । २ । ३९ । इति खच् । “खचि ह्रस्वः ।” ६ । ४ । ९४ । इति उपधाया ह्रस्वस्ततो मुम् ।) परतापी । (यथा, भट्टिः । १ । १ । “अभून्नृपो विबुधसखः परन्तपः श्रुतान्वितो दशरथ इत्युदाहृतः ॥”) (जितेन्द्रियः । इति चिन्तामणिः ॥ तामस- मनोः पुत्त्रभेदः । यथा, हरिवंशे । ७ । २४ । “द्युतिस्तपस्यः सुतपास्तपोमूलस्तपोशनः । तपोरतिरकल्माषस्तन्वीधन्वी परन्तपः । तामसस्य मनोरेते दशपुत्त्रा महाबलाः ॥” नृपविशेषः । असौ हि मगधेश्वरः । यदुक्तं रघौ । ६ । २१ । “असौ शरण्यः शरणोन्मुखाना- मगाधसत्त्वो मगधप्रतिष्ठः । राजा प्रजारञ्जनलब्धवर्णः परन्तपो नाम यथार्थनामा ॥”)

"https://sa.wiktionary.org/w/index.php?title=परन्तपः&oldid=146825" इत्यस्माद् प्रतिप्राप्तम्