परपाकरतः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परपाकरतः, पुं, (परस्य पाके रतः ।) परपाक- रुचिः । प्रातः पञ्चयज्ञान्निर्व्वर्त्य परान्नभोजी । यथा, -- मिताक्षरायां प्रायश्चित्ताध्याये । “पञ्चयज्ञान् स्वयं कृत्वा परान्नमुपजीवति । सततं प्रातरुत्थाय परपाकरतस्तु सः ॥” * ॥ परपाकनिवृत्तपरपाकरतयोरन्नभोजने दोषो यथा, -- “परपाकनिवृत्तस्य परपाकरतस्य च । अपचस्य च भुक्त्वान्नं द्विजश्चान्द्रायणञ्चरेत् ॥” इति मिताक्षरायां प्राथश्चित्ताध्यायः ॥
