परभृतः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परभृतः, पुं, (परेण काकेन भृतः पुष्टः ।) कोकिलः । इत्यमरः । २ । ५ । १९ ॥ (यथा, मृच्छकटीये । “परभृत इव नीडे रक्षितो वायसीभिः ॥” स्त्रियां टाप् । यथा, रघौ । ९ । ४७ । “परभृताभिरितीव निवेदिते स्मरमते रमते स्म बधूजनः ॥” तथाच कुमारे । ६ । २ । “चूतयष्टिरिवाभ्यासे मधौ परभृतोन्मुखी ॥” अत्र मल्लिनाथः । “परभृतया कोकिलया उन्मुखी मुखरा । परभृतेति क्रियाशब्दविव- क्षायां ‘जातेरस्त्री’ इति ङीप् प्रत्ययो न भवति । अथवा भृद्भरणं सम्पदादित्वात् क्विप् । परैः भृत्यस्यास्तया परभृता इति व्यासेन व्याख्यातम् । पदमञ्जरीकारस्तु परैः भ्रियते इति कर्म्मणि क्विपमाह ॥”) परपोषिते त्रि ॥
