परमः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परमः, त्रि, (परं उत्कृष्टं मातीति । “आतो- ऽनुपसर्गे कः ।” ३ । २ । ४ । इति कः ।) परः । उत्कृष्टः । इति मेदिनी ॥ (यथा, मनुः । ९ । ३१९ । “सर्व्वथा ब्राह्मणाः पूज्याः परमं दैवतं हि तत् ॥”) प्रधानम् । (यथा, मनुः । ६ । ९६ । “एवं संन्यस्य कर्म्माणि स्वकार्य्यपरमोऽस्पृहः ॥”) आद्यः । ओङ्कारः । इति विश्वः ॥ (यथा, कुमारे । ६ । ३५ । “ततः परममित्युक्त्वा प्रतस्थे मुनिमण्डलम् ॥”) अग्रेसरः । इति हेमचन्द्रः ॥ (महादेवः । यथा, महाभारते । १३ । १७ । ५१ । मन्त्रवित् परमोमन्त्रः सर्व्वभावकरो हरः ॥”)
