परमब्रह्म
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परमब्रह्म, [न्] क्ली, (परमं ब्रह्म ।) परमेश्वरः । नारायणः । यथा । सत्यतपा उवाच । “यदेतत् परमं ब्रह्म त्वया प्रोक्तं महामुने ! । तस्य रूपं न जानन्ति योगिनोऽपि महात्मनः ॥ अनामगोत्ररहितममूर्त्तं मूर्त्तिवर्ज्जितम् । कथं तज्ज्ञायते ब्रह्म संज्ञानामविवर्ज्जितम् ॥ तत्तस्य संज्ञां कथय येन जानाम्यहं गुरो ! ॥” दुर्व्वासा उवाच । “यदेतत् परमं ब्रह्म वेदवादेषु पठ्यते । स देवः पुण्डरीकाक्षः स्वयं नारायणः परः ॥ स यज्ञैर्विविधैरिष्टैर्दानैर्दत्तैश्च सत्तम ! । प्राप्यते परमो देवः स्वयं नारायणो हरिः ॥” इति वराहपुराणम् ॥
