परमर्षि
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परमर्षिः, पुं, (परमश्चासौ ऋषिश्चेति ।) अस्य व्युत्पत्तिर्यथा, -- “ऋषिर्हिंसागतौ धातुर्विद्यासत्यतपःश्रुतैः । एषा सन्निचयो यस्मात् ब्रह्मणश्च ततस्त्वृषिः ॥ विवृत्तिसमकालन्तु बुद्ध्या व्यक्तिरृषिस्त्वयम् । ऋषते परमं यस्मात् परमर्षिस्ततः स्मृतः ॥ गत्यर्थादृषतेर्धातोर्नामानि वृत्तिकारणम् । यस्मादेष स्वयं भूतस्तस्माच्च ऋषिता मता ॥” इति मात्स्ये १२० अध्यायः ॥ भेलादिऋषिविशेषः । इति त्रिकाण्डशेषः ॥ (वेदव्यासो हि परमर्षिः । यथा, महाभारते । १ । १ । १७ । “द्वैपायनेन यत् प्रोक्तं पुराणं परमर्षिणा ॥”)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परमर्षि¦ पु॰ कर्म॰। वेदव्यासादिषु ऋषिषु तन्नामविरुक्तिःमत्स्यपु॰
१२
० अ॰ यथा
“ऋषिर्हिंसागतौ धातुर्विद्यासत्यतपश्रुतैः। एष सन्नि-चयो यस्मात् ब्राह्मणश्च ततस्त्वृषिः। विवृत्तिसमका-लन्त बुद्ध्या व्यक्तिमृषिस्त्वयम्। ऋषते परमं यस्मात प-रमर्षिस्ततः स्मृतः। गत्यर्थादृषतेर्धातोर्नामानि वृत्ति-कारणम्। यस्मादेष स्वयंभूतस्तस्माच्च ऋषिता मता”।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परमर्षि¦ m. (-र्षिः) A Rishi or divine sage, of a peculiar order or division, comprising the Muni BHELA and others. E. परम excellent, and ऋषि a divine sage.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परमर्षि/ परम--र्षि m. ( म-ऋषि)a great or divine sage MBh. Pur. etc.