सामग्री पर जाएँ

परमर्षिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

परमर्षिः, पुं, (परमश्चासौ ऋषिश्चेति ।) अस्य व्युत्पत्तिर्यथा, -- “ऋषिर्हिंसागतौ धातुर्विद्यासत्यतपःश्रुतैः । एषा सन्निचयो यस्मात् ब्रह्मणश्च ततस्त्वृषिः ॥ विवृत्तिसमकालन्तु बुद्ध्या व्यक्तिरृषिस्त्वयम् । ऋषते परमं यस्मात् परमर्षिस्ततः स्मृतः ॥ गत्यर्थादृषतेर्धातोर्नामानि वृत्तिकारणम् । यस्मादेष स्वयं भूतस्तस्माच्च ऋषिता मता ॥” इति मात्स्ये १२० अध्यायः ॥ भेलादिऋषिविशेषः । इति त्रिकाण्डशेषः ॥ (वेदव्यासो हि परमर्षिः । यथा, महाभारते । १ । १ । १७ । “द्वैपायनेन यत् प्रोक्तं पुराणं परमर्षिणा ॥”)

"https://sa.wiktionary.org/w/index.php?title=परमर्षिः&oldid=146862" इत्यस्माद् प्रतिप्राप्तम्