सामग्री पर जाएँ

परमाणुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

परमाणुः, पुं, (परमः सर्व्वचरमकोऽणुः ।) पृथिव्यादिभूतचतुष्टयानां द्ब्यणुकानामवयवः । स च नित्यः निरवयवः ततः किमपिसूक्ष्मं नास्ति । यथा, -- “नित्यानित्या च सा द्वेधा नित्या स्यादणुलक्षणा । अनित्या तु तदत्या स्यात् सैवावयवयोगिनी ॥” पारिमाण्डल्यनामकतत्परिमाणन्तु न कस्यापि कारणम् । यथा, “पारिमाण्डल्यभिन्नानां कारणत्वमुदाहृतम् ॥” जलादिपरमाणुरूपस्य नित्यत्वम् । पार्थिवपर- माणुरूपस्यानित्यत्वम् । पार्थिवपरमाणुरूप- स्यानित्यत्वम् । यथा, भाषापरिच्छेदे ॥ “जलादिपरमाणौ तन्नित्यमन्यत् सहेतुकम् ।” तैरेव परमाणुभिराद्युपादानैर्द्व्यणुकत्रसरेण्वादि- क्रमेण स्थूलक्षितिजलतेजोमरुतः सृजति परमे- श्वरः । यथा आयोजनं परमाणुकर्म्म तथा च सर्गाद्यकालीनं द्ब्यणुकारम्भकपरमाणुकर्म्म यत्नजन्यं प्रयत्नवदात्मसंयोगजन्यं वा कर्म्मत्वात् अस्मदादिशरीरकर्म्मवत् इति कुसुमाञ्जलिः ॥ प्रलयेऽतिस्थूलस्थूलनाशानन्तरं परमाणुक्रिया- विभागपूर्ब्बसंयोगनाशादिक्रमेण द्व्यणुकनाशा- त्तिष्ठन्ति परमाणव एवेति । यथा, -- “दोधूयमानास्तिष्ठन्ति प्रलये परमाणवः ।” इति प्राचीनकारिका ॥ तस्य महत्त्वाभावादतीन्द्रियत्वम् । यथा । महत्त्वं षड्विधे हेतुरिति भाषापरिच्छेदः ॥ * ॥ कालविशेषः । यथा, श्रीभागवते ३ । ११ । ४-५ ॥ “स कालः परमाणुर्वै यो भुङ्क्ते परमाणुताम् । सतो विशेषभुग् यस्तु कालः स परमो महान् ॥ अणुर्द्वौ परमाणू स्यात्त्रसरेणुस्त्रयः स्मृतः । जालार्करश्म्यवगतः खमेवानुपतन्नगात् ॥” अस्यार्थः । एतदेव प्रपञ्चयति स इत्यादिना । सतः प्रपञ्चस्य परमाणुतां परमाण्ववस्थां यो भुङ्क्ते स कालः परमाणुः तस्यैवाविशेषं साकल्यं यो भुङ्क्ते स परममहान् । अयमर्थः ग्रहर्क्षताराचक्रस्थ इत्यादिना यत् सूर्य्यपर्य्यटनं वक्ष्यति तत्र सूर्य्यो यावता परमाणुदेशमति- क्रामति तावान् कालः परमाणुः । यावता च द्वादशराश्यात्मकं सर्व्वं भुवनकोषमतिक्रामति स परममहान् संवत्सरात्मकः तस्यैवावृत्त्या युगमन्वन्तरादिक्रमेण द्विपरार्द्धान्तत्वमिति । तथा च पञ्चमे सूर्य्यगत्यैव कालादिविभागं वक्ष्यति । ५ । इदानीं द्व्यणुकादिलक्षणपूर्व्वकं मध्यमकालावस्थां कथयति द्वौ परमाणू अणुः स्यात् त्रयोऽणव- स्त्रसरेणुः स तु प्रत्यक्ष इत्याह जालार्केति गवाक्षप्रविष्टेष्वर्करश्मिष्ववगतः कोऽसौ योऽति- लघुत्वेन खमेवानुपतन् अगात् गतः । न गामिति पाठे खमेवानुपतन्नवगतः न तु गां पृथ्वीम् । इति श्रीधरस्वामी ॥

"https://sa.wiktionary.org/w/index.php?title=परमाणुः&oldid=146867" इत्यस्माद् प्रतिप्राप्तम्