सामग्री पर जाएँ

परमान्नम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

परमान्नम्, क्ली, देवपित्रन्नत्वात् परममुत्कृष्टमन्नम् । परमाणामुत्कृष्टानां देवादीनामन्नमिति वा । इति भरतः ॥ तत्पर्य्यायः । पायसः २ । इत्य- मरः । २ । ७ । २४ ॥ क्षीरिका ३ । तस्य पाकप्रकारो यथा, -- “शुद्धेऽर्द्धपक्वे दुग्धे तु घृताक्तांस्तण्डुलान् क्षिपेत् । ते सिद्धाः क्षीरिका ख्याता सा सिताज्ययुतो- त्तमा ॥” अस्य गुणाः । “क्षीरिका दुर्ज्जरा बल्या धातुपुष्टिप्रदा गुरुः । विष्टम्भिनी हरेत् पित्तरक्तपित्ताग्निमारुतान् ॥” इति भावप्रकाशः ॥

"https://sa.wiktionary.org/w/index.php?title=परमान्नम्&oldid=146874" इत्यस्माद् प्रतिप्राप्तम्