परमायुः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परमायुः, [स्] क्ली, (परमं आयुः ।) जीवित- कालः । यथा, -- “शतं वर्षाणि विंशत्या निशाभिः पञ्चभिः सह । परमायुरिदं प्रोक्तं नराणां करिणामिह ॥ अब्दा द्बात्रिंशदश्वानां शुनां द्वादशवत्सराः । पञ्चविंशतिवर्षाणि खरस्य करभस्य च ॥ चतुर्व्विंशतिरब्दानां वृषस्य महिषस्य च । मृगशूकरवस्तादिपशूनां षड्दशान्विताः ॥” इति शब्दमाला ॥ * ॥ अंशायुषि न कार्य्यैवं हानिः प्राज्ञैः कथञ्चन ॥ लग्नस्य वीर्य्यादंशोत्थं पैण्डं भानोर्व्वलाधिकात् । निसर्गोऽयं विधोर्ब्बीर्य्यादायुः साध्यं विचक्षणैः ॥ त्रयश्चेद्बलहीनाः स्युर्जीवोक्तं साधयेत्तदा । लग्नेन्दोर्लग्नभान्वोश्च सूर्य्येन्दोः समवीर्य्ययोः ॥ तदायुषो यदैक्यार्द्धं तदुक्तं श्रीधरादिभिः । नाक्षत्रसावनादायुः पृथक्शून्यनगांशकैः ॥ साष्टसूर्य्यांशकै १२८ र्हीनं सौरं वर्षादिकं भवेत् ॥ पथ्याशिनः सधर्म्मा येसच्छीलाढ्या जितेन्द्रियाः । गुरुदेवद्विजे भक्तास्तेषामेवायुरीरितम् ॥ ये पापा लुब्धकृपणा देवब्राह्मणनिन्दकाः । बन्धुगुर्व्वङ्गनासक्तास्तेषां मृत्युरकालजः ॥” इति तोषण्यामायुर्दायाध्यायः ॥
