सामग्री पर जाएँ

परमायुस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

परमायुः, [स्] क्ली, (परमं आयुः ।) जीवित- कालः । यथा, -- “शतं वर्षाणि विंशत्या निशाभिः पञ्चभिः सह । परमायुरिदं प्रोक्तं नराणां करिणामिह ॥ अब्दा द्बात्रिंशदश्वानां शुनां द्वादशवत्सराः । पञ्चविंशतिवर्षाणि खरस्य करभस्य च ॥ चतुर्व्विंशतिरब्दानां वृषस्य महिषस्य च । मृगशूकरवस्तादिपशूनां षड्दशान्विताः ॥” इति शब्दमाला ॥ * ॥ अंशायुषि न कार्य्यैवं हानिः प्राज्ञैः कथञ्चन ॥ लग्नस्य वीर्य्यादंशोत्थं पैण्डं भानोर्व्वलाधिकात् । निसर्गोऽयं विधोर्ब्बीर्य्यादायुः साध्यं विचक्षणैः ॥ त्रयश्चेद्बलहीनाः स्युर्जीवोक्तं साधयेत्तदा । लग्नेन्दोर्लग्नभान्वोश्च सूर्य्येन्दोः समवीर्य्ययोः ॥ तदायुषो यदैक्यार्द्धं तदुक्तं श्रीधरादिभिः । नाक्षत्रसावनादायुः पृथक्शून्यनगांशकैः ॥ साष्टसूर्य्यांशकै १२८ र्हीनं सौरं वर्षादिकं भवेत् ॥ पथ्याशिनः सधर्म्मा येसच्छीलाढ्या जितेन्द्रियाः । गुरुदेवद्विजे भक्तास्तेषामेवायुरीरितम् ॥ ये पापा लुब्धकृपणा देवब्राह्मणनिन्दकाः । बन्धुगुर्व्वङ्गनासक्तास्तेषां मृत्युरकालजः ॥” इति तोषण्यामायुर्दायाध्यायः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

परमायुस्¦ न॰ कर्म॰। यस्य यावत्कालं जीवनकालः शा-स्त्रोक्तः तस्य तत्कालपर्य्यन्तजीवनकाले आयुर्दायशब्दे



७३ पृ॰ तदानयनाद्युक्त दृश्यम्। शब्दमालायांप्राणिभेदे परमजीवनकालभेदाश्च उक्ता यथा(
“शतं वर्षाणि विंशत्या निशाभिः पञ्चभिः सह। परमायुरिदं प्रोक्तं नराणां करिणामिह। अव्दाद्वात्रिंशदश्वानां शुनां द्वादश वत्सराः। पञ्चविंशतिवर्षाणिखरस्य करभस्य च। चतुर्विंशतिरव्दानां वृषस्य महि-षस्य च। मृगशूकरवस्तादिपशूनां षड्दशान्विताः” अधिकमायुस्शब्दे

७८

५ पृ॰ दृश्यम्। [Page4238-b+ 38]

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

परमायुस्¦ m. (-युः) The longest period of life, either in men or animals. E. परम and आयुस life.

"https://sa.wiktionary.org/w/index.php?title=परमायुस्&oldid=415234" इत्यस्माद् प्रतिप्राप्तम्