सामग्री पर जाएँ

परमार्थः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

परमार्थः, पुं, (परमः श्रेष्ठः अर्थः ।) उत्कृष्ट- वस्तु । यथार्थः । यथा, -- “प्रपञ्चो यदि वर्त्तेत निवर्त्तेत न संशयः । मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥” इति माण्डूक्यवार्त्तिकम् ॥ (तथा च कुमारे । ५ । ७५ । “उवाच चैनं परमार्थतो हरं न वेत्सि नूनं यत एवमात्थ माम् ॥” परमः मुख्यः अर्थः प्रयोजनमिति विग्रहे । मोक्षः । सुखम् । सुखभोगः दुःखाभावः ॥ इति न्यायदर्शनम् ॥)

"https://sa.wiktionary.org/w/index.php?title=परमार्थः&oldid=146880" इत्यस्माद् प्रतिप्राप्तम्