परमेष्ठी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परमेष्ठी, [न्] पुं, (परमे व्योम्नि चिदाकाशे ब्रह्म- पदे वा तिष्ठतीति । स्थागति निवृत्तौ “परमे कित् ।” उणां । ४ । १० । इति इनिः स च कित् । “हलदन्तात् सप्तम्याः संज्ञा- याम् ।” ६ । ३ । ९ । इत्यलुक् “स्थास्थिन् स्थणाम् । इति षत्वम् । परमे स्थानेऽनावृत्त- लक्षणे तिष्ठतीति कुल्लूकभट्टः ॥) ब्रह्मा । इत्यमरः । १ । १ । १६ । (यथा, मनुः । १ । ८० । “मन्वन्तराण्यसंख्यानि सर्गः संहार एव च । क्रीडन्निवैतत् कुरुते परमेष्ठी पुनः पुनः ॥” विष्णुः । यथा, महाभारते । १३ । १४९ । ५८ । “ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ॥” महादेवः । यथा, महाभारते । ३ । ३७ । ५८ । “क्रियतां दर्शने यत्नो देवस्य परमेष्ठिनः ॥”) दर्शनात्तस्य कौन्तेय ! संसिद्धः सर्व्वमेष्यसि ॥”) जिनः । इति हेमचन्द्रः ॥ शालग्रामविशेषः । यथा, -- “परमेष्ठी च शुक्लाभः पद्मचक्रसमन्वितः । चित्राकृतिस्तथा पृष्ठे शुषिरञ्चातिपुष्कलम् ॥ परमेष्ठी लोहिताभश्चक्रमेकं तथा युतम् । विम्बाकृतिस्तथा रेखा शुषिरञ्चातिपुष्कलम् ॥” इति ब्रह्मपुराणम् ॥ “परमेष्ठी च शुक्लाभश्चक्रपद्मसमन्वितः । स वर्त्तुलस्तथा पीतः पृष्ठे च शुषिरं ध्रुवम् ॥” इति पुराणसंग्रहः ॥ “परमेष्ठी तु रक्ताभश्चक्रपद्मसमन्वितः । द्विधाकृतस्तथा पृष्ठे शुषिरञ्चापि वर्त्तुलम् ॥ पीतवर्णयुतो वापि भुक्तिमुक्तिवरप्रदः ॥” इति वैश्वानरसंहिता ॥ * ॥ गुरुविशेषः । यथा, -- “आदौ सर्व्वत्र देवेशि ! मन्त्रदः परमो गुरुः । परापरगुरुस्त्वं हि परमेष्ठी त्वहं गुरुः ॥” इति बृहन्नीलतन्त्रे २ पटलः ॥ मन्त्रदाता गुरुः प्रोक्तो मन्त्रस्तु परमो गुरुः । परापरगुरुस्त्वं हि परमेष्ठिगुरुस्त्वहम् ॥” इति तन्त्रान्तरम् ॥ (अजमीडपुत्त्रः । यथा, महाभारते । १ । ९४ । ३१ । “अजमीडो वरस्तेषां तत्मिन् वंशः प्रतिष्ठितः । षट् पुत्त्रान् सोऽप्यजनयत् तिसृषु स्त्रीषु भारत ! । ऋक्षं धूमिन्यथोनिली दुष्मन्तपरमेष्ठिनौ ॥” परमस्थानस्थिते वाच्यलिङ्गः । यथा, मार्क- ण्डेये । ७६ । २ । “अन्यजन्मनि जातोऽसौ चक्षुषः परमेष्ठिनः । चाक्षुषत्वमतस्तस्य जन्मन्यस्मिन्नपि द्विज ! ॥”)
Purana Encyclopedia
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
PARAMEṢṬHĪ I : A king of Candravaṁśa (Lunar race). He was the son of Indradyumna and the father of Pratīhāra. (Chapter I, Aṁśa 1, Viṣṇu Purāṇa).
_______________________________
*1st word in left half of page 568 (+offset) in original book.
PARAMEṢṬHĪ II : A Vaidikasūktadraṣṭā. He was a disciple of Brahmā. (Bṛhadāraṇyaka Upaniṣad). According to Jaimini Brāhmaṇa Parameṣṭhī was the disciple of Prajāpati.
_______________________________
*2nd word in left half of page 568 (+offset) in original book.
PARAMEṢṬHĪ III : A king of Pāñcāladeśa. He was born to Ajamīḍha of Nīlī. Parameṣṭhī and the sons of Duṣyanta, his brother, are known as Pāñcālas. (Ādi Parva, Mahābhārata).
_______________________________
*3rd word in left half of page 568 (+offset) in original book.
