परशम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परशम्, क्ली, (स्पृशतीति । पृषोदरादित्वात् साधुः । अस्य स्पर्शनात् अपरस्य धातोः स्वर्णत्वं जायते अतोऽस्य तथात्वम् ।) रत्नविशेषः । यथा, -- “मुक्तामाणिक्यपरशमणिरत्नाकरान्वितम् । कृष्णशुभ्रहरिद्रक्तमणिराजिविराजितम् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ४ अध्वायः ॥
