सामग्री पर जाएँ

परशुरामः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

परशुरामः, पुं, (परशुना कुठाराख्यशस्त्रेण रामः रमणं यस्य । परशुशस्त्रबलेनैव दुष्ट- क्षत्त्रियवंश्यान् निहत्यात्मानं रमयति इति तात् पर्य्यार्थः ।) भगवतः षोडशावतारः । यथा, -- “अवतारे षोडशमे पश्यन् ब्रह्मद्रुहो नृपान् । त्रिःसप्तकृत्वः कुपितो निःक्षत्त्रामकरोन्महीम् ॥” इति श्रीभागवते १ स्कन्घे २ अध्यायः ॥ तत्पर्य्यायः । जामदग्न्यः २ पर्शुरामः ३ परशु- रामकः ४ भार्गवः ५ भृगुपतिः ६ भृगूला- पतिः ७ । इति शब्दरत्नावली ॥ अस्योत्- पत्त्यादिकं यथा, -- मार्कण्डेय उवाच । “अथ काले व्यतीते तु जमदग्निर्महातपाः । विदर्भराजस्य सुतां प्रयत्नेन जितां स्वयम् ॥ भार्य्यार्थे प्रतिजग्राह रेणुकां लक्षणान्विताम् । सा तस्मात् सुषुवे पुत्त्रान् चतुरो वेदसम्मतान् ॥ रुमण्वन्तं सुषेणञ्च विश्वं विश्वावसुन्तथा । पश्चात्तस्यां स्वयं जज्ञे भगवान् मधुसूदनः ॥ कार्त्तबीर्य्यवधायाशु शक्राद्यैः सकलैः सुरैः । याचितः पञ्चमः सोऽभूत्तेषां रामाह्वयस्तु यः ॥ भारावतारणार्थाय जातः परशुना सह । सहजः परशुस्तस्य तं जहाति कदाच न ॥ अयं निजपितामह्याश्चरुभुक्तिविपर्य्ययात् । ब्राह्मणः क्षत्त्रियाचारो रामोऽभूत् क्रूरकर्म्मकृत् । स वेदानखिलान् ज्ञात्वा धनुर्व्वेदांश्च सर्व्वशः । स्वतातात् कृतकृत्योऽभूद्वेदविद्याविशारदः ॥” इति कालिकापुराणे ८५ अध्यायः ॥ अवशिष्टं पाद्मोत्तरखण्डे ५० अध्याये द्रष्टव्यम् ॥ (अयमेव पितुरादेशात् परशुना स्वमातुः शिर- श्चिच्छेद ततः प्रसन्नात् पितुर्वरं लब्ध्वा मातरं पुनर्जीवयामास । यदुक्तं महाभारते । ३ । ११६ । ५ -- १८ । “फलाहारेषु सर्व्वेषु गतेष्वथ सुतेषु वै । रेणुका स्नातुमगमत् कदाचिन्नियतव्रता ॥ सा तु चित्ररथं नाम मार्त्तिकावतकं नृपम् । ददर्श रेणुका राजन्नागच्छन्ती यदृच्छया ॥ क्रीडन्तं सलिले दृष्ट्वा सभार्य्यं पद्ममालिनम् । ऋद्धिमन्तं ततस्तस्य स्पृहयामास रेणुका ॥ व्यभिचाराच्च सा तस्मात् क्लिन्नाम्भसि विचेतना । प्रविवेशाश्रमं त्रस्ता तां वै भर्त्ता त्वबुध्यत ॥ स (जमदग्निः) तां दृष्ट्वा च्युतां धैर्य्यात् ब्राह्म्या लक्ष्म्या विवर्ज्जिताम् । धिक्शब्देन महातेजा गर्हयामास वीर्य्यवान् ॥ ततो ज्येष्ठो जामदग्न्यो रुमण्वान्नाम नामतः । आजगाम सुषेणश्च वसुर्व्विश्वावसुस्तथा ॥ तानानुपूर्ब्ब्या भगवान् वधे मातुरचोदयत् । न च ते जातसम्मोहाः किञ्चिदूचुर्व्विचेतसः ॥ ततः शशाप तान् क्रोधात्ते शप्ताश्चेतनां जहुः । मृगपक्षिसधर्म्माणः क्षिप्रमासन् जडोपमाः ॥ ततो रामोऽभ्यात् पश्चादाश्रमं परवीरहा । तमुवाच महाबाहुं जमदग्निर्म्महातपाः ॥ जहीमां मातरं पापां मा च पुत्त्र ! व्यथां कृथाः । तत आदाय परशुं रामो मातुः शिरोऽहरत् ॥ ततस्तस्य महाराज ! जमदग्नेर्महात्मनः । कोपोऽभ्यगच्छत् सहसा प्रसन्नश्चाब्रवीदिदम् ॥ ममेदं वचनात्तात ! कृतं ते कर्म्म दुष्करम् । वृणीष्व कामान् धर्म्मज्ञ ! यावतो वाञ्छसे हृदा ॥ स वव्रे मातुरुत्थानमस्मृतिञ्च वधस्य वै । पापेन तेन चास्पर्शं भ्रातॄणां प्रकृतिन्तथा ॥ अप्रतिद्वन्दतां युद्धे दीर्घमायुश्च भारत ! । ददौ च सर्व्वान् कामांस्तान् जमदग्निर्महा- तपाः ॥” अयं पुनर्बलदर्पितं आश्रमात् वत्स्यहारिणं कार्त्तवीर्य्यार्ज्जुनं हतवान् । अनेन जातामर्षा- स्तस्यार्ज्जुनस्य सुतास्ततःप्रभृति कालं प्रतीक्ष- माणाः कदाचित् रामविरहितमाश्रममागत्य तस्य पितरं जमदग्निं निजघ्नुः । रामस्तु अस्मात् पितृवधामर्षात् त्रिःसप्तकृत्वः पृथिवीं निःक्षत्रिया- मकरोत् । ततो गच्छति काले दाशरथिना रामेण हतगर्व्वो दक्षिनाशां गत्वा महेन्द्रे गिरौ उग्रेण तपसा कालं यापयति ॥)

"https://sa.wiktionary.org/w/index.php?title=परशुरामः&oldid=146920" इत्यस्माद् प्रतिप्राप्तम्