सामग्री पर जाएँ

पराकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पराकः, पुं, (परं अत्यन्तं अकं दुःखं उपवासादि- जन्यशारीरिकादिक्लेशो यत्र यस्माद्वा ।) व्रत- विशेषः । खड्गः । इति मेदिनी ॥ क्षुद्रः । रोगविशेषः । जन्तुविशेषः । इति विश्वः ॥ * ॥ पराकव्रतमाह मनुः । ११ । २१५ । “यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम् । पराको नाम कृच्छ्रोऽयं सर्व्वपापापनोदनः ॥” पराके पञ्च धेनवः पराकस्य प्राजापत्यपञ्चक- तुल्यत्वात् । यथा अङ्गिराः । “षड्भिर्व्वर्षैः कृच्छ्रचारी ब्रह्महा तु विशुध्यति । मासि मासि पराकेण त्रिभिर्व्वर्षैर्व्यपोहति ॥” अत्र षड्भिर्व्वर्षैः साशीतिशतप्राजापत्यानि पूर्ब्बमुक्तानि तथा प्रतिमास्येकैकपराकेण वर्षे द्बादश पराकाः वर्षत्रये षट्त्रिंशत् पराकाः । ततश्च षट्त्रिंशत् पराकाशीत्युत्तरप्राजापत्य- शतयोः प्रत्येकं ब्रह्मवधपापक्षयैककार्य्यकरत्वात् तुत्यत्वं षट्त्रिंशतश्च पञ्चगुणमशीत्युत्तरशतं भवतीति । अतः प्राजापत्यपञ्चकतुल्यः पराकः । इति प्रायश्चित्ततत्त्वम् ॥ * ॥ “द्वादशाहोपवासेन पराकः सर्व्वपापहा ॥” इति गरुडपुराणे प्रायश्चित्तप्रकरणम् ॥

"https://sa.wiktionary.org/w/index.php?title=पराकः&oldid=146935" इत्यस्माद् प्रतिप्राप्तम्