पराङ्मुखः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पराङ्मुखः, त्रि, (पराक् प्रतिलोमगामि मुखं यस्य ।) विमुखः । तत्पर्य्यायः । पराचीनः २ । इत्यमरः । ३ । १ । ३३ ॥ (यथा, मनुः । १० । ११९ । “स्वधर्म्मो विजयस्तस्य नाहवे स्यात् पराङ्मुखः ॥ तन्त्रोक्तमन्त्रविशेषे, पुं । यथा, तन्त्रसारे । “कामबीजं मुखे माया शिरस्यङ्कुशमेव च । असौ पराङ्मुखः प्रोक्तो मध्ये तु बिन्दुलाञ्छितः ॥”)
