पराचीनः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पराचीनः, त्रि, (पराञ्चति अनभिमुखीभवतीति । अञ्चु + “ऋत्विग्दधृक् ।” ३ । २ । ५९ । इति क्विन् ततः स्वार्थे “विभाषाञ्चेरदिक् स्त्रियाम् ।” ५ । ४ । ८ । इति खः ।) पराङ्मुखः । इत्य- मरः । ३ । १ । ३३ ॥ (यथा, भागवते । ३ । ३२ । २८ । “ज्ञानमेकं पराचीनैरिन्द्रियैर्ब्रह्म निर्गुणम् । अवभात्यर्थरूपेण भ्रान्त्या शब्दादिधर्म्मिणा ॥”)
