पराजितः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पराजितः, त्रि, (परा + जि + कर्म्मणि क्तः ।) कृतपराजयः । हारितः । तत्पर्य्यायः । परा- भूतः २ विजितः ३ निर्जितः ४ जितः ५ । इति शब्दरत्नावली ॥ “इदं वाच्यमिदमवाच्यमेवं सति पराजितो भवतीति इमानि खलु पदानि भिषग्- वादमार्गज्ञानार्थमधिगम्यानि भवन्ति ।” इति चरके विमानस्थानेऽष्टमेऽध्याये ॥)
