सामग्री पर जाएँ

परान्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

परान्नम्, क्ली, (परस्य अन्नम् ।) अन्यस्वामिकभक्त- पिष्टकादि ॥ परकर्त्तृकशस्यपाकजद्रव्यमात्रम् । परस्पृष्टान्नम् । तस्य त्याज्यत्वं यथा, -- “परान्नं परवासश्च नित्यं धर्म्मरतस्त्यजेत् ।” इति स्मृतिः ॥ संयमदिने तस्य त्याज्यत्वं यथा, -- “कांस्यं मांसं मसूरञ्च चणकं कोरदूषकम् । शाकं मधु परान्नञ्च त्यजेदुपवसन् स्त्रियम् ॥” * ॥ पारणदिने तस्य त्याज्यत्वं यथा, -- “अभ्यङ्गञ्च परान्नञ्च तैलं निर्म्माल्यलङ्घनम् । तुलसीचयनं द्यूतं पुनर्भोजनमेव वा ॥ वस्त्रपीडां तथा क्षारं द्वादश्यां वर्ज्जयेद्बुधः ॥” * ॥ तद्भोक्तुर्यागादेर्विफलत्वं यथा, -- “परपाकेन जुष्टस्य द्बिजस्य गृहमेधिनः । इष्टं दत्तं तपोऽधीतं यस्यान्नं तस्य तद्भवेत् ॥” * ॥ तद्भुक्त्वा पुत्त्रोत्पादने दोषो यथा, -- “यस्यान्नेन तु भुक्तेन भार्य्यां समधिगच्छति । यस्यान्नं तस्य ते पुत्त्रा अन्नाद्रेतः प्रवर्त्तते ॥” * ॥ ब्राह्मणादिस्वामिकान्नभोजने दोषो यथा, -- “ब्राह्मणान्नेन दारिद्र्यं क्षत्त्रियान्नेन प्रेष्यताम् । वैश्यान्नेन तु शूद्रत्वं शूद्रान्नैर्नरकं व्रजेत् ॥” इत्येकादशीतत्त्वम् ॥ * ॥ परान्नभोजनेन तीर्थगमने फलस्याल्पत्वं यथा, -- “षोडशांशं स लभते यः परान्नेन गच्छति । अर्द्धं तीर्थफलं तस्य यः प्रसङ्गेन गच्छति ॥” इति प्रायश्चित्ततत्त्वम् ॥ * ॥ महागुरुनिपाते तस्य त्याज्यत्वं यथा, -- “अन्यश्राद्धं परान्नञ्च गन्धं माल्यञ्च मैथुनम् । वर्ज्जयेद्गुरुपाते तु यावत् पूर्णो न वत्सरः ॥” इति शुद्धितत्त्वम् ॥ * ॥ तद्भोक्तुर्मन्त्रसिद्धिहानिर्यथा, -- “जिह्वा दग्धा परान्नेन करौ दग्धौ प्रतिग्रहात् । मनो दग्धं परस्त्रीभिः कथं सिद्धिर्व्वरानने ! ॥” इति तन्त्रम् ॥ * ॥ तद्भोजने प्रतिप्रसवो यथा, -- “गुर्व्वन्नं मातुलान्नं वा श्वशुरान्नं तथैव च । पितुः पुत्त्रस्य चैवान्नं न परान्नमिति स्मृतिः ॥” इत्येकादशीतत्त्वम् ॥

परान्नः, त्रि, (परान्नं नित्यमस्त्यस्य । “अर्श आदिभ्योऽच् ।” ५ । २ । १२७ । इति अच् ।) परान्नोपजीवी । तत्पर्य्यायः । परपिण्डादः २ । इत्यमरः । ३ । १ । २० ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

परान्न वि।

परान्नजीवनः

समानार्थक:परान्न,परपिण्डाद

3।1।20।2।1

बुभुक्षितः स्यात्क्षुधितो जिघत्सुरशनायितः। परान्नः परपिण्डादो भक्षको घस्मरोऽद्भरः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

परान्न¦ न॰

६ त॰।

१ अन्यस्वामिकभक्तपिष्टकादौ।

२ परकृत-शस्यपाकजद्रव्यमात्रे

३ परपक्वान्ने च। ( व्रतादौ परान्नस्य त्याज्यत्वं यथा
“परान्नं परवासश्चनित्यं धर्मरतस्त्यजेत्” इति स्मृति। संयमदिने तस्य त्या-ज्यत्वं यथा
“कांस्यं मांसं मसूरञ्च चणकं कोरदूषकम्। शाकं मधु परान्नञ्च त्यजेदुपवसन् स्त्रियम्”। पारणदिनेतस्य त्याज्यत्वं यथा
“अभ्यङ्गञ्च परान्नञ्च तैलं निर्मा-ल्यलङ्घनम्। तुलसीचयनं द्यूतं पुनर्भोजनमेव च। वस्त्रपीडां तथा क्षारं द्वादश्यां वर्जयेद्बुधः” एका॰ त॰। तद्भोक्तुर्यागादेर्विफलत्वं यथा
“परपाकेण जुष्टस्यद्विजस्य गृहमेधिनः। इष्टं दत्तं तपोऽधीतं यस्यान्नंतस्य तद्भवेत्”। तद्भुक्त्वा पुत्रोत्पादने दोषो यथा
“यस्यान्नेन तु भुक्तेन भार्य्यां समधिगच्छति। यस्यान्नंतस्य ते पुत्रा अन्नाद्रेतः प्रवर्त्तते” ब्राह्मणादिपरस्वा-मिकान्न{??}जने दोषो यथा
“ब्राह्मणान्नेम दारिद्र्यं क्ष-त्रियान्नेन प्रेष्यताम्। वैश्यान्नेन तु शूद्रत्वं शूद्रान्नै-र्नरकं ब्रजेत्” इत्येकादशीत॰। परान्नभोजनेन तीर्थगमनेफलस्याल्पत्वं यथा
“षोडशांशं स लभते यः परान्नेनगच्छति। अर्द्धं तीर्थफलं तस्य यः प्रसङ्गेन गच्छति” प्राय॰ त॰। महागुरुनिपाते तस्य व्याज्यत्वं यथा
“अन्य-श्राद्धं परान्नञ्च गन्धं माल्यञ्च मैथुनम्। वर्जयेद्गुरुपाते तु यावत् पूर्णो न वत्सरः” शुद्धित॰। तद्भोक्तुर्मन्त्र-सिद्धिहानिर्यथा
“जिह्वा दरघा परान्नेन करौ दग्धौ[Page4242-a+ 38] प्रतिग्रहात्। मनो दग्धं परस्त्रीभिः कथं सिद्धिर्वरा-नने” तन्त्र॰। तद्भोजने प्रतिप्रसवो यथा
“गुर्वन्नं मातु-लान्नं वा श्वशुरान्नं तथैव च। पितुः पुत्रस्य चैवान्नंन परान्नमिति स्मृतिः” एकादशीत॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

परान्न¦ mfn. (-न्नः-न्ना-न्नं) Living at another's expense. n. (-न्नं)
1. Food supplied by another.
2. Food dressed or touched by or belonging to another. E. पर another, अन्न food.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

परान्न/ परा n. the food of another Ka1v. Ka1tyS3r. Sch.

"https://sa.wiktionary.org/w/index.php?title=परान्न&oldid=415695" इत्यस्माद् प्रतिप्राप्तम्