परान्नम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परान्नम्, क्ली, (परस्य अन्नम् ।) अन्यस्वामिकभक्त- पिष्टकादि ॥ परकर्त्तृकशस्यपाकजद्रव्यमात्रम् । परस्पृष्टान्नम् । तस्य त्याज्यत्वं यथा, -- “परान्नं परवासश्च नित्यं धर्म्मरतस्त्यजेत् ।” इति स्मृतिः ॥ संयमदिने तस्य त्याज्यत्वं यथा, -- “कांस्यं मांसं मसूरञ्च चणकं कोरदूषकम् । शाकं मधु परान्नञ्च त्यजेदुपवसन् स्त्रियम् ॥” * ॥ पारणदिने तस्य त्याज्यत्वं यथा, -- “अभ्यङ्गञ्च परान्नञ्च तैलं निर्म्माल्यलङ्घनम् । तुलसीचयनं द्यूतं पुनर्भोजनमेव वा ॥ वस्त्रपीडां तथा क्षारं द्वादश्यां वर्ज्जयेद्बुधः ॥” * ॥ तद्भोक्तुर्यागादेर्विफलत्वं यथा, -- “परपाकेन जुष्टस्य द्बिजस्य गृहमेधिनः । इष्टं दत्तं तपोऽधीतं यस्यान्नं तस्य तद्भवेत् ॥” * ॥ तद्भुक्त्वा पुत्त्रोत्पादने दोषो यथा, -- “यस्यान्नेन तु भुक्तेन भार्य्यां समधिगच्छति । यस्यान्नं तस्य ते पुत्त्रा अन्नाद्रेतः प्रवर्त्तते ॥” * ॥ ब्राह्मणादिस्वामिकान्नभोजने दोषो यथा, -- “ब्राह्मणान्नेन दारिद्र्यं क्षत्त्रियान्नेन प्रेष्यताम् । वैश्यान्नेन तु शूद्रत्वं शूद्रान्नैर्नरकं व्रजेत् ॥” इत्येकादशीतत्त्वम् ॥ * ॥ परान्नभोजनेन तीर्थगमने फलस्याल्पत्वं यथा, -- “षोडशांशं स लभते यः परान्नेन गच्छति । अर्द्धं तीर्थफलं तस्य यः प्रसङ्गेन गच्छति ॥” इति प्रायश्चित्ततत्त्वम् ॥ * ॥ महागुरुनिपाते तस्य त्याज्यत्वं यथा, -- “अन्यश्राद्धं परान्नञ्च गन्धं माल्यञ्च मैथुनम् । वर्ज्जयेद्गुरुपाते तु यावत् पूर्णो न वत्सरः ॥” इति शुद्धितत्त्वम् ॥ * ॥ तद्भोक्तुर्मन्त्रसिद्धिहानिर्यथा, -- “जिह्वा दग्धा परान्नेन करौ दग्धौ प्रतिग्रहात् । मनो दग्धं परस्त्रीभिः कथं सिद्धिर्व्वरानने ! ॥” इति तन्त्रम् ॥ * ॥ तद्भोजने प्रतिप्रसवो यथा, -- “गुर्व्वन्नं मातुलान्नं वा श्वशुरान्नं तथैव च । पितुः पुत्त्रस्य चैवान्नं न परान्नमिति स्मृतिः ॥” इत्येकादशीतत्त्वम् ॥
