परामर्शः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परामर्शः, पुं, (परामृश्यते इति । परामर्शन- मित्यर्थः । परा + मृश् + भावे घञ् ।) युक्तिः । विवेचनम् । तत्पर्य्यायः । वितर्कः २ उन्नय- नम् ३ विमर्षणम् ४ अध्याहारः ५ तर्कः ६ ऊहः ७ । इति हेमचन्द्रः ॥ तर्कशास्त्रे तु व्याप्ति- विशिष्टपक्षधर्म्मताज्ञानम् । यथा, -- “व्याप्यस्य पक्षधर्म्मत्वधीः परामर्श उच्यते ॥” इति भाषापरिच्छेदः ॥ अस्यार्थः “व्याप्तिविशिष्टस्य पक्षेणसह वैशिष्ठ्या वगाहिज्ञानमनुमितिजनकम् । तच्च व्याप्यः पक्षे इति ज्ञानं पक्षो व्याप्यवान् इति ज्ञानं वा ।” इति सिद्धान्तमुक्तावली ॥ स चानुमित- व्यापारः । यथा, -- “व्यापारस्तु परामर्शः करणं व्याप्तिधीर्भवेत् ॥” इति भाषापरिच्छेदः ॥ अस्यार्थः । “अनुमायामनुमितौ व्याप्तिज्ञानं कारणं परामर्शो व्यापारः । तथा हि । येन पुरुषेण महानसादौ धूमे वह्नेर्व्याप्तिर्गृहीता पश्चाच्च स एव पुरुषः क्वचित् पर्व्वतादौ अवि- च्छिन्नमूलां धूमरेखां पश्यति तदनन्तरं धूमो वह्निव्याप्य इत्येवं रूपं व्याप्तिस्मरणं तस्य पुरु- षस्य भवति पश्चाच्च वह्निव्याप्यधूमवान् पर्व्वत इति ज्ञानं भवति स एव परामर्श इत्युच्यते ।” इति सिद्धान्तमुक्तावली ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परामर्शः [parāmarśḥ], 1 Seizing, pulling; as in केशपरामर्शः.
Bending or drawing (as a bow).
Violence, attack, assault; याज्ञसेन्याः परामर्शः Mb.
Disturbance, hindrance; तपःपरामर्शविवृद्धमन्योः Ku.3.71.
Calling to mind, recollection.
Consideration, reflection, thought.
Judgment.
(In logic) Deduction, ascertaining that the पक्ष or subject possesses the हेतु; व्याप्तिविशिष्टपक्ष- धर्मताज्ञानं परामर्शः T. S; or व्याप्तस्य पक्षधर्मत्वधीः परामर्श उच्यते Bhāṣā P.66.
Touching, striking gently.
Affection (by disease).
