सामग्री पर जाएँ

परायणम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

परायणम्, त्रि, आसङ्गवचनम् । इत्यमरः । ३ । २ । २ ॥ परं केवलमयनमासक्तिस्थानमिति परायणम् । यथा धर्म्मपरायणो धर्म्मासक्तः । इति भरतः ॥ आश्रयः । (यथा, मनुः । ४ । १० । “वर्त्तयंश्च शिलोञ्छाभ्यामग्निहोत्रपरायणः ॥” तत्परम् । अभीष्टम् । इति मेदिनी ॥ (नित्य- प्रतिष्ठा । यथा, रामायणे । २ । ४८ । १७ । “पादच्छायासुखं भर्त्तुस्तादृशस्य महात्मनः । स हि नाथोजनस्यास्य स गतिः स परायणम् ॥” “परायणं शाश्वतप्रतिष्ठा ।” इति रामानुजः ॥)

"https://sa.wiktionary.org/w/index.php?title=परायणम्&oldid=146987" इत्यस्माद् प्रतिप्राप्तम्