परार्द्धम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परार्द्धम् क्ली, (परार्द्ध्यति सर्व्वोत्कृष्टतया वर्द्ध्वते इति । ऋध्यैर वृद्धौ + अच् ।) दशमध्यसंख्या । लक्ष- लक्षकोटिः । १००,०००,०००,०००,०००,००० इदं चरमसंख्या अष्टादशाङ्कपर्य्यन्तम् । इति हेमचन्द्रः ज्योतिषश्च ॥ (यथा, नैषधे । ३ । ४० । “यदि त्रिलोकीगणनापरा स्यात् तस्याः समाप्तिर्यदि नायुषः स्यात् । पारे परार्द्धं गणितं यदि स्यात् गणेयनिःशेषगुणोऽपि स स्यात् ॥”) ब्रह्मण आयुषोऽर्द्धम् । यथा, -- “निजेन तस्य मानेन चायुर्व्वर्षशतं स्मृतम् । तत् पराख्यं तदर्द्धञ्च परार्द्धमभिधीयते ॥” इति कौर्म्मे ५ अध्यायः ॥ (तथा, मार्कण्डेये । ४६ । ४२ -- ४३ । “शतं हि तस्य (ब्रह्मणः) वर्षाणां परमित्यभि- धीयते । पञ्चाशद्भिस्तथावर्षैः परार्द्धमिति कीर्त्त्यते ॥ एवमस्य परार्द्धन्तु व्यतीतं द्बिजसत्तम् ! । यस्यान्तेऽभून्महाकल्पः पाद्म इत्यभिविश्रुतः ॥”)
