परार्द्ध्यः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परार्द्ध्यः, त्रि, (परार्द्धं परार्द्धसंख्यावत् प्रधानत्व- मर्हतीति । परार्द्ध + यत् यद्वा परस्मिन्नर्द्धे भवः । “परावराधमोत्तमपूर्ब्बांच्च ।” ४ । ३ । ५ । इति यत् ।) प्रधानः । श्रेष्ठः । इत्यमरः । ३ । १ । ५८ । (यथा, रघुः । १० । ६४ । “ताभ्यस्तथाविधान् स्वप्नान् श्रुत्वा प्रीतो हि पार्थिवः । मेने परार्द्ध्यमात्मानं गुरुत्वेन जगद्गुरोः ॥”)
