सामग्री पर जाएँ

पराशरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पराशरः, पुं, (अस्य निरुक्तिरुक्ता यथा, महा- भारते । १ । १७९ । ३ । “परासुः स यतस्तेन वशिष्ठः स्थापितो मुनिः । गर्भस्थेन ततो लोके पराशर इति स्मृतः ॥” “परासोराशासनमवस्थानं येन स पराशरः । आङ्पूर्ब्बाच्छासतेर्डरन् ।” इति नीलकण्ठः ॥) व्यासपिता । शक्त्रिमुनिपुत्त्रः । यथा, -- “सुतं त्वजनयच्छक्त्रेरदृश्यन्ती पराशरम् । काली पराशरात् जज्ञे कृष्णद्वैपायनं मुनिम् ॥” इत्यग्निपुराणम् ॥ (अयं हि द्बादशाध्यायात्मिकां धर्म्मसंहितां कृत- वान् । सा च कलिकर्त्तव्यधर्म्मविषया । यदुक्तं तत्रैव । “कृते तु मानवो धर्म्मस्त्रेतायां गौतमः स्मृतः । द्वापरे शङ्खलिखितः कलौ पाराशरः स्मृतः ॥” तत्र संहितायां १ मे अध्याये युगभेदे धर्म्मभेदादि- कथनम् । २ अः आचारधर्म्मगृहधर्म्मादिकथ- नम् । ३ अः अशौचव्यवस्था आत्महरणादि- दोषाः । ४ अः प्रायश्चित्तमतान्त्येष्टिक्रियाकुश- पुत्तलिकादिकथनम् । ५ अः प्राणिदष्टप्रायश्चित्त- अवस्था । ६ अः प्राणिवधप्रायश्चित्तकथनम् । ७ अः द्रव्यशुद्ध्यादि । ८ अः गोवधादिप्राय- श्चित्तम् । ९ अः गोवधापवादादि । १० अः अगम्यागमनादिप्रायश्चित्तम् । ११ अः अमेध्य- भक्षणादि प्रायश्चित्तेम् । १२ अः प्रायश्चि त्ताङ्ग- स्नानमेदादि ॥ * ॥ अयं खलु मत्स्यगन्धायां सत्यवत्यां वेदव्यास- मुनुपादितवान् । एतद्विवरणमुक्तं यथा देवी- भागवते । २ स्कन्धे । २ अध्याये द्रष्टव्यम् ॥ परान् आश्वणाति हिनस्तीति । शृ गि हिंसे + अच् ।” नागभेदः । यथा, महाभारते । १ । ५७ । १८ । “वराहको वीरणकः सुचित्र- श्चित्रवेगिकः । पराशरस्तरुणको मणिस्कन्ध- स्तथारुणिः ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पराशरः [parāśarḥ], N. of a celebrated sage, father of Vyāsa and the author of a Smṛiti.

"https://sa.wiktionary.org/w/index.php?title=पराशरः&oldid=415850" इत्यस्माद् प्रतिप्राप्तम्