परिकर्म्म
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परिकर्म्म, [न्] क्ली, (परिक्रियते इति । परि + कृ + मनिन् ।) कुङ्कुमादिना शरीरशोभाधान- रूपसंस्कारः । इति भरतः ॥ स्नानोद्वर्त्तनादि । इति स्वामी ॥ शरीरसंस्कारमात्रम् । इत्यन्ये ॥ तत्पर्य्यायः । अङ्गसंस्कारः २ । इत्यमरः । २ । ६ । १२१ ॥ प्रतिकर्म्म ३ । इति शब्दरत्नावली ॥ (यथा कुमारे । ४ । १९ । “विबुधैरसि यस्य दारुणैः असमाप्ते परिकर्म्मणि स्मृतः । तमिमं कुरु दक्षिणेतरं चरणं निर्म्मितरागमेहि मे ॥”)
