परिक्रमः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परिक्रमः, पुं, (परिक्रमणम् । क्रमु पादविक्षेपे + भावे घञ् । “नोदात्तोपदेशस्येति ।” ७ । ३ । ३४ । इति उपधाया न वृद्धिः ।) क्रीडार्थं पद्भ्यां गमनम् । तत्पर्य्यायः । विहारः २ । इत्यमरः । ३ । २ । १६ ॥ प्रदक्षिणम् । यथा, -- वराह उवाच । “शृणु भद्रे ! महापुण्यं पृथिव्यां सर्व्वतो दिशम् । परिक्रम्य यथाध्वानं प्रमाणगणितं शुभम् ॥ भूम्याः परिक्रमे सम्यक् प्रमाणं योजनानि च । षष्टिकोटिसहस्राणि षाष्टिकोटिशतानि च ॥ तीर्थान्येतानि देवाश्च तारकाश्च नभस्तले । गणितानि समस्तानि वायुना जगदायुषा ॥ ब्रह्मणा लोमशेनैव नारदेन ध्रुवेण च । जाम्बवता सपुत्त्रेण रावणेन हनूमता ॥ एतैरनेकधा देवैः ससागरवना मही । क्रमिता बालिना चैव वाह्यमण्डलरेखया ॥ अन्तरा भ्रमणेनैव सुग्रीवेण महात्मना । तथा च पूर्ब्बदेवेन्द्रैः पञ्चभिः पाण्डुनन्दनैः ॥ योगसिद्धैस्तथा कैश्चिन्मार्कण्डेयमुखैरपि । क्रमिता न क्रमिष्यन्ति न पूर्ब्बे नापरे जनाः ॥ अल्पसत्त्वबलोपेतैः प्राणिभिश्चाल्पबुद्धिभिः । मनसापि न शक्यन्ते गमनस्य च का कथा ॥ सप्तद्वीपे तु तीर्थानि भ्रमणाद् यत् फलं भवेत् । प्राप्यते त्ताधिकं तस्मान्मथुरायाः परिक्रमे ॥ मथुरां समनुप्राप्य यस्तु कुर्य्यात् प्रदक्षिणम् । प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ॥ तस्मात् सर्व्वप्रयत्नेन सर्व्वकामानभीप्सुभिः । कर्त्तव्या मथुरां प्राप्य नरैः सम्यक् प्रदक्षिणा ॥” इति वराहपुराणम् ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परिक्रमः [parikramḥ], 1 Roaming about, moving about; द्रुतपदमभि- यातुमिच्छितानां गगनपरिक्रमलाघवेन तासाम् Ki.1.2.
Roaming, walking or passing over.
Circumambulating.
Walking for pleasure.
Series, order.
Succession.
Penetrating.
Following the course of a river down from its source to its mouth and then on the other bank upto its source again; MW. -Comp. -सहः a goat.
