परिघः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परिघः, पुं, (परि हन्यतेऽनेनेति । परि + हन् + “परौ षः ।” ३ । ३ । ८४ । इति अप् घादेशश्च ।) लोहबद्धलगुडः । लोहमय- लगुडः लोहमुखलगुडः । तत्पर्य्यायः । परि- घातनः २ । इत्यमरः । २ । ८ । ९१ ॥ परि- घातकः ३ । इति शब्दरत्नावली ॥ (यथा, महाभारते । ६ । ६७ । २४ । “बाहूनामुत्तमाङ्गानां कार्म्मुकाणाञ्च भारत ! । गदानां परिघाणाञ्च हस्तानाञ्चोरुभिः सह ॥”) परिघातः । परितो हननम् । इत्यमरभरतौ ॥ विष्कम्भादिसप्तविंशतियोगान्तर्गत ऊनविंशति- योगः । (यथा, ज्योतिषे । “वज्रोऽसृक् च व्यतीपातो वरीयान् परिघस्तथा ॥” अस्य अर्द्धांशं परित्यज्य शुभं कर्म्म कुर्य्यात् । यदुक्तं तत्रैव । “परिघस्य त्यजेदर्द्धं शुभकर्म्म ततः परम् ॥”) अथ परिघयोगजातफलम् । “उत्पत्तिकाले परिघो यदि स्या- न्नरस्तदा वंशकुठारकल्पः । असत्यसाक्षी क्षमया विहीनः स्वल्पानुभोक्ता विजितारिपक्षः ॥” इति कोष्ठीप्रदीपः ॥ अर्गलः । इति मेदिनी ॥ मुद्गरः । शूलः । इत्य- जयः ॥ कलसः । काचघटः । गोपुरम् । सद्म । इति शब्दरत्नावली ॥ ॥ * ॥ (कार्त्तिकानुचर- विशेषः । यथा, महाभारते । ९ । ४५ । ३३ । “परिघञ्च वटञ्चैव भीमञ्च सुमहाबलम् । दहतिं दहनञ्चैव प्रचण्डौ वीर्य्यसम्मतौ ॥ अंशोऽप्यनुचरान् पञ्च ददौ स्कन्दाय धीमते ॥” चण्डालविशेषः । यथा, महाभारते । १२ । १३८ । ११४ । “लम्बकर्णो महावक्त्रो मलिनो घोरदर्शनः । परिघो नाम चण्डालः शस्त्रपाणिरदृश्यत ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परिघः [parighḥ], 1 An iron (or wooden) beam or bar used for locking or shutting a gate (अर्गल); एकः कृत्स्नां नगरपरिघप्रांशुबाहुर्भुनक्ति Ś.2.16; R.16.84; Śi.19.32; M.5.2.
(Hence) A bar, barrier, hindrance, obstacle; भार्गवस्य सुकृतो$पि सो$भवत् स्वर्गमार्गपरिघो दुरत्ययः R.11.88.
A stick or club studded or tipped with iron; पादपाविद्धपरिघः R.12.73.
An iron club in general. It is a kind of weapon (परितो हन्तीतीसर्वतः कण्टकितो लोहदण्डः com. on Mb.1.19.17);...... हन्तुं घोरं परिघमाददे Śiva B.14.99.
A water-jar, pitcher.
A glass-pitcher.
A house, dwelling.
Killing, destroying.
Striking, a stroke or blow.
A child which assumes a peculiar cross position in birth.
A line of clouds crossing the sun at sunrise or sunset.
The gate of a palace, town or house. Hence perhaps it means 'Gate-duty'; मूलं भागो व्याजी परिघः क्लृप्तं रूपिकमत्ययश्चाय-मुखम् Kau. A.2.6.24.
(In astrol.) N. of the 19th Yoga. -घौ m. (du.) Two birds flying on each side of a traveller (regarded as an omen).-Comp. -गुरु a. as heavy as an iron bar; M. -स्तम्भः a door-post; M.
