परिचयः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परिचयः, पुं, (परि समन्तात् चयनं बोधो ज्ञान- मित्यर्थः । परि + चि + अप् ।) विशेषेण ज्ञानम् । चेना इति भाषा । तत्पर्य्यायः । संस्तवः २ । इत्यमरः । ३ । २ । २३ ॥ प्रणयः ३ । इति भरतः ॥ (यथा, माघे । ७ । ६१ । “न परिचयो मलिनात्मनां प्रसाधनम् ॥” अभ्यासः । यथा, माघे । २ । ७५ । “हेतुः परिचयस्थैर्य्ये वक्तर्गुणनिकैव सा ॥” नादस्य अवस्थाविशेषः । यथा, हठयोगदीपि- कायाम् । ४ । ६९ । “आरम्भश्च घटश्चैव तथा परिचयोऽपि च । निष्पत्तिः सर्व्वयोगेषु स्यादवस्थाचतुष्टयम् ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परिचयः [paricayḥ], 1 Heaping up, accumulation.
Acquaintance; familiarity, intimacy; पुरुषपरिचयेन Mk.1.56; अतिपरिचयादवज्ञा 'familiarity breeds contempt'; परिचयं चललक्ष्यनिपातने R.9.49; सकलकलापरिचयः K.76.
Trial, study, practice, frequent repetition; हेतुः परिचयेस्थैर्ये वक्तुर्गुणनिकैव सा Śi.2.75;11.5; वर्णपरिचयं करोति Ś.5.
Recognition; Me.9.
Stay; चिरं मातुलपरिचयादविज्ञात- वृत्तान्तो$स्मि Pratimā 3. -Comp. -करुणा increasing love or tenderness; तदिह सुवदनायां तात मत्तः परस्तात् परिचयकरुणायां सर्वथा मा विरंसीः Māl.6.16.
