परिचरः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचरः, पुं, (परितश्चरतीति । परि + चर + पचाद्यच् ।) युद्धकाले परप्रहारात् रथरक्षकः । प्रजासामन्तव्यवस्थापनकारी । इति केचित् ॥ सेनायां राज्ञो दण्डनायकः । इत्यन्ये । इति भरतः ॥ तत्पर्य्यायः । परिधिस्थिः २ । इत्य- मरः । २ । ८ । ६२ ॥ सहायः ३ । इति रत्न- माला ॥ (परिचर्य्याकारकः । यथा वैद्यके, -- “उपचारज्ञता दाक्ष्यमनुरागश्च भर्त्तरि । शौचञ्चेति चतुर्थोऽयं गुणः परिचरे जने ॥” इति चरके सूत्रस्थाने नवमेऽध्याये ॥ “स्निग्धोऽजुगुप्सुर्बलबान् युक्तो व्याधितरक्षणे । वैद्यवाक्यकृदश्रान्तः पादः परिचरः स्मृतः ॥” इति सुश्रुते सूत्रस्थाने चतुस्त्रिंशेऽध्याये ॥)

"https://sa.wiktionary.org/w/index.php?title=परिचरः&oldid=147075" इत्यस्माद् प्रतिप्राप्तम्