परिच्छेदः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परिच्छेदः, पुं, (परि + छिद् + भावे करणादौ च घञ् ।) ग्रन्थविच्छेदः । यथा, त्रिकाण्डशेषे ॥ “सर्गवर्गपरिच्छेदोद्घाताध्यायाङ्कसंग्रहाः । उच्छासः परिवर्त्तश्च पटलः काण्डमस्त्रियाम् ॥ स्थानं प्रकरणं पर्व्वाह्निकञ्च ग्रन्थसन्धयः ॥” (तत्र काव्ये सर्गः । कोषे वर्गः । अलङ्कारे परि- च्छेदोच्छ्वासौ । कथायामुद्घातः । पुराणसंहि- तादौ अध्यायः । नाटके अङ्कः । तन्त्रे पटलः । ब्राह्मणे काण्डम् । संगीते प्रकरणम् । इति- हासे पर्व्व । भाष्ये आह्निकम् । एवमन्येऽपि पाद- तरङ्गस्तवकप्रपाठकस्कन्धमञ्जरीलहरीशाखा- दयो ग्रन्थसन्धयो ग्रन्थभेदे यथायथं ज्ञेयाः ॥ * ॥) सीमा । अवधिः । यथा, मालतीमाधवे । “परिच्छेदातीतः सकलवचनानामविषयः पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान् । विवेकप्रध्वंसादुपचितमहामोहगहनो विकारः कोऽप्यन्तर्जडयति च तापञ्च कुरुते ॥”
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परिच्छेदः [paricchēdḥ], 1 Cutting, separating, dividing, discriminating (between right and wrong).
Accurate, definition or distinction, decision, accurate determination, ascertainment; परिच्छेदव्यक्तिर्भवति न पुरःस्थे$पि विषये Māl.1.31; परिच्छेदातीतः सकलवचनानामविषयः 1.3 'transcending all definition or determination'; इत्यारूढबहुप्रतर्कम- परिच्छेदाकुलं मे मनः Ś.5.9.
Discrimination, judgment, discernment; परिच्छेदो हि पाण्डित्यं यदापन्ना विपत्तयः । अपरि- च्छेदकर्तॄणां विपदः स्युः पदे पदे H.1.128; किं पाण्डित्यं परिच्छेदः 1.127.
A limit, boundary, setting limits to, circumscribing; अलमलं परिच्छेदेन M.2.
A section, chapter or division of a work (for the other names for section &c. see under अध्याय).
A segment.
Remedying.
A measure.
