परिणामः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परिणामः, पुं, (परिणमनम् । परि + नम् + घञ् ।) विकारः । प्रकृतेरन्यथाभावः । यथा । मुखस्य विकारः क्रोधरक्तता । केचित्तु । प्रकृति- ध्वंसजन्यविकारः । यथा काष्ठस्य विकारो भस्म । मृत्पिण्डस्य घटः । इत्यमरभरतौ ॥ चरमः । शेषः । यथा, -- “परिणामसुखे गरीयसि व्यथकेऽस्मिन् वचसि क्षतौजसाम् । अतिवीर्य्यवतीव भेषजे बहुरल्पीयसि दृश्यते गुणः ॥” इति भारवौ । २ । ४ ॥ (निदानभेदेन यथा, -- “असात्म्येन्द्रियार्थसंयोगप्रज्ञापराधपरिणाम- भेदात्त्रिविधो वा ॥” “परिणामोऽयोगादियुक्ता ऋतुस्वभावजा शीतादयः । अधर्म्मस्य च रोग- हेतोरत्रैवान्तर्भाव इति भट्टारहरिश्चन्द्रः ॥” इति माधवकरकृतरुग्विनिश्चयस्य पञ्चनिदान- व्याख्याने विजयेनोक्तम् ॥ “कालस्य परिणामेन जरामृत्यनिमित्तजाः । रोगाः स्वाभाविका दृष्टाः स्वभावो निष्प्रतिक्रियः ॥” इति चरके शरीरस्थाने प्रथमेऽध्याये ॥ अर्थालङ्कारभेदः । तल्लक्षणं यथा, -- “परिणामः क्रियार्थश्चेद्विषयी विषयात्मना ॥”)
