सामग्री पर जाएँ

परिणामशूलः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

परिणामशूलः, पुं, (परिणामे चरमावस्थायां शूलं यस्य । यद्वा परिणामे भुक्तान्नादेः परि- पाके उत्पद्यते शूलं यस्मात् ।) रोगविशेषः । तस्योत्पत्तिर्यथा, -- “स्वैर्निदानैः प्रकुपितो वायुः सन्निहिते यदा । कफपित्ते समावृत्य शूलकारी भवेद्बली ॥” तस्य लक्षणं यथा, -- “भुक्ते जीर्य्यति यच्छूलं तदेव परिणामजम् । तस्य लक्षणमप्येतत् समासेनाभिधीयते ॥” वातिकस्य तस्य लक्षणं यथा, -- “आध्मानाटोपविण्मूत्रविबन्धारतिवेपनैः । स्निग्धाष्णोपशमप्रायं वातिकं तद्वदेद्भिषक् ॥” पैत्तिकस्य तस्य लक्षणं यथा, -- क्षीरानुपानं विनिहन्त्यवश्यं शूलं प्रवृद्धं परिणामसंज्ञम् ॥” इति पिप्पलीघृतम् ॥ * ॥ “मण्डूरं शोधितं पत्रीं लौहजां वा गुडेन तु । भक्षयम्मुच्यते शूलात् परिणामसमुद्भवात् ॥ संशोध्य चूर्णितं कृत्वा मण्डूरस्य पलाष्टकम् । शतावरीरसस्याष्टौ दध्नस्तु पयसस्तथा ॥ पलान्यादाय चत्वारि तथा गव्यस्य सर्पिषः । विपचेत् सर्व्वमेकैध्यं यावत् पिण्डत्वमागतम् ॥ सिद्धन्तु भक्षयेन्मध्ये भोजनस्याग्रतोऽपि वा । वातात्मकं पित्तभवं शूलञ्च परिणामजम् ॥ निहन्त्येव हि योगोऽयं मण्डूरस्य न संशयः ॥” इति शतावरीमण्डूरम् ॥ * ॥ इति वैद्यकचक्रपाणिसंग्रहे शूलाधिकारे ॥ “अजीर्णान्नरसः प्रोक्तो दशमः परिणामजः ।” “जीर्णेऽन्ने च भवेद्यस्तु स ज्ञेयः परिणामजः ॥” “लङ्घनं वमनञ्चैव विरेकश्चानुवासनम् ॥ निरूहो वस्ति कर्म्माणि परिणामे त्रिदोषजे । चित्रकं त्रिवृता दन्ती विडङ्गं कटुकत्रयम् ॥ समं चूर्णं गुडेनाथ क्वारयेन्मोदकान् सुधीः । भक्षयेत् प्रातरुत्थाय पश्चादुष्णोदकं पिबेत् ॥ परिणामोद्भवं शूलं हन्ति शीघ्रं नरस्य च । यवानीहिङ्गु सिन्धूत्थक्षारं सौवर्च्चलाभया । सुरामण्डेन पातव्या परिणामे त्रिदोषजे ॥ हिङ्गव्योषवचाजमोदहबुषा पथ्यायवानी शठी जातीपिप्पलीदाडिमवृकीतिन्तीडिचव्याग्नि- कम् । तस्मादम्लसुवर्च्चला च यवजक्षारं तथा सर्ज्जिका सिन्धूत्थं विडचूर्णकं समकृतं स्याद्बीजपूरे रसे ॥ संभाव्यं सुकृतात्वनेन गुडिका चाक्षप्रमाणा तथा कल्को वातविकारिणां प्रददतः शूलार्शसः प्लीहकान् ॥” “एष हिङ्ग्वादिको नाम सर्व्वशूलार्त्तिनाशनः । सर्व्ववातविकारघ्नः सर्व्वक्षयनिवारणः । परिणामोद्भवं शूलं वारयत्याश्वसंशयम् ॥” इति हारीते चिकित्सितस्थाने नवमेऽध्याये ॥

"https://sa.wiktionary.org/w/index.php?title=परिणामशूलः&oldid=147115" इत्यस्माद् प्रतिप्राप्तम्