परितः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परितः [स्] व्य, (परि + “पर्य्यभिभ्याञ्च ।” ५ । ३ । ९ । इति तसिल् ।) सर्व्वतः । चतुर्द्दिगभि- व्याप्तौ । इत्यमरः । ३ । ४ । १३ ॥ (यथा, रघुः । ६ । ९ । “पुरोपकण्ठो पवनाश्रयाणां कलापिनामुद्धतनृत्यहेतौ । प्रध्मातशङ्खे परितो दिगन्तान् तूर्य्यस्वने मूर्च्छति मङ्गलार्थे ॥”)

"https://sa.wiktionary.org/w/index.php?title=परितः&oldid=147122" इत्यस्माद् प्रतिप्राप्तम्