परिदायी
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परिदायी, [न्] पुं, (परित्यज्य शास्त्रधर्म्मं ददा- तीति । परि + दा + णिनिः ।) अनूढज्येष्ठे तत्कनिष्ठाय कन्यादाता । “यथा हारीतः । ज्येष्ठेऽनिर्व्विष्टे कनीयान् निर्व्विशन् परिवेत्ता भवति परिविन्नो ज्येष्ठः परिवेदनीया कन्या परिदायी दाता परिकर्त्ता याजकस्ते सर्व्वे पतिताः ।” इत्युद्वाहतत्त्वम् ॥
