परिधिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परिधिः, पुं, (परिधीयतेऽनेन । परि + धा + “उपसर्गे धोः किः ।” ३ । ३ । ९२ । इति किः ।) परिवेशः । चन्द्रसूर्य्यसमीपमण्डलम् । (यथा, रघुः । ८ । ३० । “अनृणत्वमुपेयिवान् बभौ परिधेर्मुक्त इवोष्णदीधितिः ॥”) यज्ञियतरुशाखा । यज्ञियतरोः पलाशादेर्यज्ञ पशुबन्धनार्थं या शाखा निखायते तस्याम् । इत्यमरभरतौ ॥ (यथाह आपस्तम्बः । “खादिरं पालाशं वैकविंशतिदारुकमिध्वं करोति त्रयः परिधयः पालाशकाष्ठकाः खादिरौदुम्बरबिल्व- रोहितकविकङ्कतानां ये वा यज्ञिया वृक्षा आर्द्राः श्रुष्करसत्वच्काः ॥” इति ॥ * ॥) भूगोलादेर्वेष्टनम् । यथा, -- “व्यासेभनन्दाग्निहते विभक्ते खवाणसूर्य्यैः परिधिस्तु सूक्ष्मः ॥” इति लीलावती ॥ (क्ली, परिधीयते यदिति । परि + धा + कर्म्मणि किः । परिधेयवस्त्रम् । यथा, भाग- वते । ८ । ७ । १७ । “मेघश्यामः कनकपरिधिः कर्णविद्योतविद्यु- न्मूर्ध्नि भ्राजद्बिलुलितकचः स्रग्धरो रक्तनेत्रः ॥” “कनकं सुवर्णमिव पीतं परिधि वस्त्रं यस्य” इति तट्टीका ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परिधिः [paridhiḥ], 1 A wall, fence, hedge, anything surrounding or enclosing another; नैनं परिधिमेतेषामीषत् क्षपयितुं क्षमाः Śiva B.26.59; बर्बरान् परिधीभूतान् परिभूय स्वतेजसा 28.27.
A misty halo round the sun or moon; परिधेर्मुक्त इवोष्णदीधितिः R.8.3; शशिपरिधिरिवोच्चेर्मण्डलस्तेन तेने N.2. 18.
A circle of light; मेघश्यामः कनकपरिधिः कर्णविद्योत- विद्युत् Bhāg.
The horizon; the quarter; पिबद्भिरिव खं दृग्भिर्दहद्भिः परिधीनिव Bhāg.8.15.1.
The circumference or compass in general.
The circumference of a circle.
The periphery of a wheel.
A stick (of a sacred tree like पलाश) laid round the sacrificial fire; सप्तास्यासन् परिधयः त्रिःसप्त समिधः कृताः Rv.1.9.15; धूम्रा दिशः परिधयः कम्पते भूः सहाद्रिभिः Bhāg.1.14.15.
A circle surrounding the globe.
Epicycle.
A covering.
A branch of a sacred tree to which the sacrificial victim is tied.
A cover, garment; श्यामं हिरण्यपरिधिं नवमाल्यबर्हधातुप्रवालनटवेषमनुव्रतांसे Bhāg.1.23.22.-Comp. -उपान्त a. bordered by the ocean. -पतिखेचरः an epithet of Śiva.
स्थः a guard.
an officer attendant on a king or general (modern 'aide-decamp').
A number of sentinels posted in a circle.
