सामग्री पर जाएँ

परिपन्थी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

परिपन्थी, [न्] त्रि, (परिसर्व्वतो भावेन दोषा- ख्यानं पन्थयितु शीलमस्य । परि + पन्थ + णिनिः ।) शत्रुः । इत्यमरः । २ । ८ । ११ । (यथा, गीतायाम् । ३ । ३४ । “इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ । तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥” प्रतिकूलाचारी । यथाह कश्चित् । “अपराधिनि चेत् क्रोधः क्रोधे क्रोधः कथं नहि । धर्म्मार्थकाममोक्षाणां चतुर्णां परिपन्थिनि ॥”)

"https://sa.wiktionary.org/w/index.php?title=परिपन्थी&oldid=147156" इत्यस्माद् प्रतिप्राप्तम्