सामग्री पर जाएँ

परिप्लुता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

परिप्लुता, स्त्री, (परि + प्लु + क्तः । स्त्रियां टाप् ।) मदिरा । इति हेमचन्द्रः । ३ । ५६६ ॥ ग्राम्य- धर्म्मे (मैथुने) वेदनावती योनिः । यथा, -- “परिप्लुतायां भवति ग्राम्यधर्म्मे रुजा भृशम् ।” इति योनिव्यापन्निदाने माधवकरः ॥ (“पित्तलाया नृसंवासे क्षवथूद्गारधारणात् । पित्तसंमूर्च्छितो वायुर्योनिं दूषयति स्त्रियाः ॥ शूनास्पर्शाक्षमासार्त्तिर्नीलपीतमसृक् स्रवेत् । श्रोणीवंक्षणपृष्ठार्त्तिज्वरार्त्तायाः परिप्लुता ॥” इति चरके चिकित्सास्थाने त्रिंशेऽध्याये ॥) आप्लुते त्रि ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

परिप्लुता/ परि-प्लुता f. spirituous liquor L.

"https://sa.wiktionary.org/w/index.php?title=परिप्लुता&oldid=277403" इत्यस्माद् प्रतिप्राप्तम्