सामग्री पर जाएँ

परिमलः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

परिमलः, पुं, (परिमलते सुगन्धिपार्थिवकणां धरतीति । मल ङ् धारणे + अच् । “क्षितावेव गन्धः ।” इति न्यायादस्य तथात्वम् ।) विमर्द्दनम् । कुङ्कमादिमर्द्दनम् । विमद्दत्थिजनमनोहरगन्धः । सुरतादिविमद्वंत्थिविलेपनकुङ्कमादिगन्धः । इत्य- मरभरतौ ॥ सुरभिमाल्यगन्धादिधारणेनोत्पन्नो हृद्यो गन्धः । इति स्वामी ॥ (यथा, कलावि- लासे । १ । ५ । “रतिलुलितललितललनाक्लमजललववाहिनो मुहुर्यत्र । श्लथकेशकुसुमपरिमलवासितदेहा वहन्त्य- निलाः ॥”) तत्पर्य्यायः । आमोदः २ गन्धः ३ सौरभ्यम् ४ सौरभम् ५ । इति राजनिर्घण्टः ॥ पण्डित- समूहः । इति शब्दरत्नावली ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

परिमलः [parimalḥ], Fragrance, perfume, scent; परिमलो गीर्वाण- चेतोहरः Bv.1.63,66,7,71; यः पण्यस्त्रीरतिपरिमलोद्गारिभि- र्नागराणामुद्दामानि प्रथयति शिलावेश्मभिर्योवनानि Me.25.

Pounding or trituration of fragrant substances.

A fragrant substance.

Copulation; 'संभोगः स्यात् परिमले' इति वैजयन्ती; अथ परिमलजामवाप्य लक्ष्मीम् Ki.1.1.

A meeting of learned men.

A stain, spot, dirt.

"https://sa.wiktionary.org/w/index.php?title=परिमलः&oldid=277947" इत्यस्माद् प्रतिप्राप्तम्