सामग्री पर जाएँ

परिवर्ज्जनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

परिवर्ज्जनम्, क्ली, (परिवर्ज्यते परित्यज्यते प्राणैर्येन । परि + वृज् + णिच् + ल्युट् ।) मारणम् । इत्य- मरः । २ । ८ । ११४ ॥ (भावे ल्युट् ।) परित्यागः । यथा, उद्भटः । “गोप्यो न दोषो मथुराङ्गनानां धूर्त्तस्य कृष्णस्य हि रीतिरेषा । विपर्य्ययो येन कृतः स्वपित्रो- स्तस्योपपत्नीपरिवर्ज्जनं किम् ॥” परिवर्ज्जनीया यथा, कौर्म्मे उपरिभागे १५ अः । “एकशय्यासनं पंक्तिभाण्डपक्वान्नमिश्रणम् । याजनाध्ययने योनिस्तथैव सहभोजनम् ॥ सहाध्यायस्तु दशमः सहयाजनमेव च । एकादश समुद्दिष्टा दोषाः साङ्कर्य्यसङ्गिताः ॥ समीपे चाप्यवस्थानात् पापं संक्रमते नृणाम् । तस्मात् सर्व्वप्रयत्नेन साङ्कर्य्यं परिवर्ज्जयेत् ॥” “यस्मिन्देशे न सम्मानो न प्रीतिर्न च बान्धवाः । न च विद्यागमः कश्चित्तं देशं परिवर्ज्जयेत् ॥” इति चाणक्यम् ॥ “ब्राह्मणं बालिशं क्षत्त्रमयोद्धारं विशं जडम् । शूद्रमक्षरसंयुक्तं दूरतः परिवर्ज्जयेत् ॥ कुभार्य्याञ्च कुमित्रञ्च कुराजानं कुसौहृदम् । कुबन्धुञ्च कुदेशञ्च दूरतः परिवर्ज्जयेत् ॥” इति गरुडपुराणे ११३ अध्यायः ॥ (“यस्य वै भाषमाणस्य रुजत्यूर्द्धमुरोभृशम् । अन्नञ्च च्यवते भुक्तं स्थितञ्चापि न जीर्य्यति ॥ बलञ्च हीयते यस्य तृष्णा चाभिप्रवर्द्धते । जायते हृदि शूलञ्च तं भिषक् परिवर्ज्जयेत् ॥” इति चरकेणेन्द्रियस्थाने षष्ठेऽध्याय उक्तम् ॥)

"https://sa.wiktionary.org/w/index.php?title=परिवर्ज्जनम्&oldid=147217" इत्यस्माद् प्रतिप्राप्तम्