परिवर्त्तः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परिवर्त्तः, पुं, (परिवर्त्तनमिति । परि + वृत् + भावे घञ् ।) विनिमयः । (यथा, रामायणे । २ । १०५ । २५ । “हृष्यन्त्यृतुमुखं दृष्ट्वा नवं नवमिवागतम् । ऋतूनां परिवर्त्तेन प्राणिनां प्राणसंक्षयः ॥”) कूर्म्मराजः । अपवर्त्तनम् । इति मेदिनी ॥ युगान्तः । इति हेमचन्द्रः ॥ ग्रन्थविच्छेदः । इति जटाधरः ॥ मृत्युपुत्त्रस्य दुःसहस्यौरसेन कलिकन्यानिर्म्माष्टिगर्भजाताष्टपुत्त्रान्तर्गततृतीय- पुत्त्रः । (यथा, मार्कण्डेये । ५१ । २ । “अष्टौ कुमाराः कन्याश्च तथाष्टावतिभीषणाः । दन्ताकृष्टिस्तथोक्तिश्च परिवर्त्तस्तथापरः ॥” तन्नामनिरुक्तिर्यथा तत्रैव १४ श्लोके । “अन्यगर्भे परान् गर्भान् सदैव परिवर्त्तयन् । रतिमाप्नोति वाक्यञ्च विवक्षोरन्यदेव यत् ॥ परिवर्त्तकसंज्ञोऽयं तस्यापि सितसर्षपैः । रक्षोघ्नमन्त्रजप्यैश्च रक्षां कुर्व्वीत तत्त्ववित् ॥”) तस्य पुत्त्रयोः कर्म्मादि यथा, -- “परिवर्त्तसुतौ द्बौ तु विरूपविकृतौ द्बिज ! । तौ तु वृक्षाद्रिपरिखाप्राकाराम्भोधिसंश्रयौ ॥ गुर्व्विण्याः परिवर्त्तन्तौ कुरुतः पादपादिषु । क्रोष्टुके ! परिवर्त्तः स्याद्गर्भस्यान्योदरात्ततः ॥ न वृक्षञ्चैव नैवाद्रिं न प्राकारं पयोनिधिम् । परिखां न समाक्रामेदबला गर्भधारिणी ॥” इति मार्कण्डेयपुराणे । ५१ । ६२ -- ६४ ॥
