परिवर्त्तिका
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परिवर्त्तिका, स्त्री, मेढ्रजातक्षुद्ररोगविशेषः । तल्ल- क्षणमाह । “मर्द्दनात् पीडनाद्वापि तथैवाप्यभिघाततः । मेढ्रचर्म्म यदा वायुर्भजते सर्व्वतश्चरन् ॥ तदा वातोपसृष्टन्तु तच्चर्म्म परिवर्त्तते । सवेदनं सदाहञ्च पाकञ्च व्रजति क्वचित् ॥ मणेरधस्तात् कोषस्तु ग्रन्थिरूपेण लम्बते । मारुतागन्तुसम्भूतां विन्द्यात्तां परिवर्त्तिकाम् । सकण्डुः कठिना वापि सैव श्ले ष्मसमन्विता ॥” अस्यां वातजायामपि पित्तानुबन्धो बोद्धव्यो दाहपाकभावात् । कोषः चर्म्मकोषः ॥ * ॥ अथ तस्याश्चिकित्सा । “परिवृत्तं घृताभ्यक्तं सुस्विन्नमुपनाहयेत् । त्रिरात्रं पञ्चरात्रं वा वातघ्नैः शाल्वणादिभिः ॥ ततोऽभ्यज्य शनैश्चर्म्म पाटयेत् पीडयेन्मणिम् । प्रविष्टे चर्म्मणि मणौ स्वेदयेदुपनाहयेत् ॥ दद्याद्वातहरान् वस्तीन् स्निग्धान्यन्नानि भोजयेत् ।” इति भावप्रकाशः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परिवर्त्तिका¦ स्त्री मेढ्रगतरोगभेदे
“मर्दनात् पीडनाच्चापितथैवात्यभिथाततः। मेढ्रचर्म यदा वायुर्भजते सर्वतश्च-रन्। तदा वातोपसृष्टन्तु चर्म प्रतिनिवर्त्तते। मणे-रधस्तात् कोषश्च ग्रन्थिरूपेण लम्बते। सवेदनं सदाहञ्चपाकञ्च व्रजति क्वचित्। मारुतागन्तुसम्भूतां विद्यान्तांपरिवर्त्तिकाम्। सकण्डूः कठिना चैव तथाश्लेष्मससु-त्थिता” सुश्रु॰।
