परिवादः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परिवादः, पुं, (परिसर्व्वतो दोषोल्लेखेन वादः कथनम् । परि + वद् + भावे घञ् ।) अपवादः । (यथा, महानिर्व्वाणतन्त्रे । १ । ४२ । “नीचसंसर्गनिरताः परवित्तापहारकाः । परनिन्दापरद्रोह-परिवादपराः खलाः ॥” * ॥ परि + वद् + णिच् + करणे घञ् ।) वीणा- वादनवस्तु । इति मेदिनी ॥
