परिविन्दन्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परिविन्दन्, [त्] पुं, (परित्यज्य ज्येष्ठं भ्रातरं विन्दति अग्न्याधानभार्य्यादिकं लभते इति । विद् + शतृ ।) परिवेदनकर्त्ता । यथा, -- “देशान्तरस्थक्लीवैकवृषणानसहोदरान् । वेश्याभिसक्तपतितशूद्रतुल्यातिरोगिणः ॥ जडमूकान्धवधिरकुब्जवामनकुष्ठकान् । अतिवृद्धानभार्य्यांश्च कृषिसक्तान् नृपस्य च ॥ धनवृद्धिप्रसक्तांश्च कामतः कारिणस्तथा । कुलटोन्मत्तचौरांश्च परिविन्दन् न दुष्यति ॥” इत्युद्वाहतत्त्वे छन्दोगपरिशिष्टम् ॥
